श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ ३ ॥
आरुरुक्षोः आरोढुमिच्छतः, अनारूढस्य, ध्यानयोगे अवस्थातुमशक्तस्यैवेत्यर्थः । कस्य तस्य आरुरुक्षोः ? मुनेः, कर्मफलसंन्यासिन इत्यर्थः । किमारुरुक्षोः ? योगम् । कर्म कारणं साधनम् उच्यते । योगारूढस्य पुनः तस्यैव शमः उपशमः सर्वकर्मभ्यो निवृत्तिः कारणं योगारूढस्य साधनम् उच्यते इत्यर्थः । यावद्यावत् कर्मभ्यः उपरमते, तावत्तावत् निरायासस्य जितेन्द्रियस्य चित्तं समाधीयते । तथा सति स झटिति योगारूढो भवति । तथा चोक्तं व्यासेन — ‘नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च । शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः’ (मो. ध. १७५ । ३७) इति ॥ ३ ॥

भाविन्या वृत्त्या मुनेर्योगम् आरोढुम् इच्छोः इष्यमाणस्य योगारोहणस्य कर्महेतुश्चेद् अपेक्षितम् योगम् आरूढस्यपि तत्फलप्राप्तौ तदेव कारणं भविष्यति तस्य कारणत्वे क्लृप्तशक्तित्वात् , इत्याशङ्क्य, आह -

योगारूढस्येति ।

अनारूढस्य इत्येतस्यैव अर्थम् स्फुटयति -

ध्यानेति ।

मुनित्वं कर्मफलसंन्यासिनि औपचारिकम् , इत्याह -

कर्मफलेति ।

साधनं चित्तशुद्धिद्वारा ध्यानयोगप्राप्तीच्छायाम् , इति शेषः । ‘तस्य’ इति प्रकृतस्य कर्मिणो ग्रहणम् ।

एवकारो भिन्नक्रमः शमशब्देन सम्बध्यते । कस्य अन्ययोगव्यवच्छेदेन शमो हेतुः ? इति, तत्र आह -

योगारूढत्वस्येति ।

सर्वव्यापारोपरमरूपोपशमस्य योगारूढत्वे कारणत्वं विवृणोति -

यावद्यावदिति ।

सर्वकर्मनिवृत्तौ आयासाभावात् वशीकृतस्य इन्द्रियग्रामस्य चित्तसमाधाने योगारूढत्वं सिध्यति, इत्यर्थः ।

सर्वकर्मोपरमस्य पुरुषार्थसाधनत्वे पौराणिकीं सम्मतिम् आह -

तथा चेति ।

एकता सर्वेषु  भूतेषु वस्तुनो द्वैताभावोपलक्षितत्वम् ,  इति प्रतिपत्तिः । समता - तेष्वेव औपाधिकविशेषेऽपि स्वतो निर्विशेषत्वधीः । सत्यता - तेषामेव हितवचनम् । शीलम् - स्वभावसम्पत्तिः । स्थितिः - स्थैर्यम् । दण्डनिधानम् - अहिंसनम् । आर्जवम् - अवक्रत्वम् । क्रियाभ्यः सर्वाभ्यः सकाशात् उपरतिश्च इति, एतदुक्तं सर्वं यथा - यादृशम् , एतादृशं नान्यद् ब्राह्मणस्य वित्तम् - पुमर्थसाधनम् , अस्ति । तस्मात् एतदेव अस्य निरतिशयं पुरुषार्थसाधनम् , इत्यर्थः ॥ ३ ॥