श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ ३ ॥
एवं परमार्थसंन्यासकर्मयोगयोः कर्तृद्वारकं संन्याससामान्यमपेक्ष्य ‘यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव’ इति कर्मयोगस्य स्तुत्यर्थं संन्यासत्वम् उक्तम् । ध्यानयोगस्य फलनिरपेक्षः कर्मयोगो बहिरङ्गं साधनमिति तं संन्यासत्वेन स्तुत्वा अधुना कर्मयोगस्य ध्यानयोगसाधनत्वं दर्शयति —

पूर्वश्लोके पूर्वोत्तरार्धाभ्याम् उक्तम् अनुवदति -

एवमिति

परमार्थसंन्यासस्य कर्मयोगान्तर्भावे कर्मयोगस्यैव सदा कर्तव्यत्वम् आपद्येत, तेन इतरस्यापि कृतत्वसिद्धेः, इत्याशङ्क्य, उक्तानुवादपूर्वकम् उत्तरश्लोकतात्पर्यम् आह -

ध्यानयोगस्येति ।