श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु
साधुष्वपि पापेषु समबुद्धिर्विशिष्यते ॥ ९ ॥
‘सुहृत्’ इत्यादिश्लोकार्धम् एकं पदम् । सुहृत् इति प्रत्युपकारमनपेक्ष्य उपकर्ता, मित्रं स्नेहवान् , अरिः शत्रुः, उदासीनः न कस्यचित् पक्षं भजते, मध्यस्थः यो विरुद्धयोः उभयोः हितैषी, द्वेष्यः आत्मनः अप्रियः, बन्धुः सम्बन्धी इत्येतेषु साधुषु शास्त्रानुवर्तिषु अपि च पापेषु प्रतिषिद्धकारिषु सर्वेषु एतेषु समबुद्धिः ‘कः किङ्कर्मा’ इत्यव्यापृतबुद्धिरित्यर्थः । विशिष्यते, ‘विमुच्यते’ इति वा पाठान्तरम् । योगारूढानां सर्वेषाम् अयम् उत्तम इत्यर्थः ॥ ९ ॥

पदच्छेदः पदार्थोक्तिः इति व्याख्यानाङ्गं सम्पादयति -

सुहृदितीति ।

अरिर्नाम परोक्षम् अपकारकः, प्रत्यक्षम्  अप्रियो द्वेष्यः, इति विभागः । समबुद्धिः इति व्याचष्टे -

कः किमिति ।

प्रथमो हि प्रश्नो जातिगोत्रादिविषयः, द्वितीयो व्यापारविषयः । उक्तप्रकारेण अव्यापृतबुद्धित्वे सर्वोत्कर्षो वा सर्वपापविमोक्षो वा सिध्यति, इत्याह -

विशिष्यत इति ।

पाठद्वयेऽपि सिद्धम् अर्थं सङ्गृह्य कथयति -

योगारूढानामिति

॥ ९ ॥