श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
योगी युञ्जीत सततमात्मानं रहसि स्थितः
एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ १० ॥
अत एवमुत्तमफलप्राप्तये —

यथोक्तविशेषणवतो योगारूढेषु उत्तमत्वे योगानुष्ठाने प्रयतितव्यम् , इति अङ्गाभिधानानन्तरं प्रधानम् अभिदधाति -

अत एवमिति ।