श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ १४ ॥
प्रशान्तात्मा प्रकर्षेण शान्तः आत्मा अन्तःकरणं यस्य सोऽयं प्रशान्तात्मा, विगतभीः विगतभयः, ब्रह्मचारिव्रते स्थितः ब्रह्मचारिणो व्रतं ब्रह्मचर्यं गुरुशुश्रूषाभिक्षान्नभुक्त्यादि तस्मिन् स्थितः, तदनुष्ठाता भवेदित्यर्थःकिञ्च, मनः संयम्य मनसः वृत्तीः उपसंहृत्य इत्येतत् , मच्चित्तः मयि परमेश्वरे चित्तं यस्य सोऽयं मच्चित्तः, युक्तः समाहितः सन् आसीत उपविशेत्मत्परः अहं परो यस्य सोऽयं मत्परो भवतिकश्चित् रागी स्त्रीचित्तः, तु स्त्रियमेव परत्वेन गृह्णाति ; किं तर्हि ? राजानं महादेवं वाअयं तु मच्चित्तो मत्परश्च ॥ १४ ॥

विशेषणान्तरम् आह -

किञ्चेति ।

उपसंहृत्य योगनिष्ठो भवेत् , इति शेषः ।

मनोवृत्युपसंहारे ध्यानमपि न सिध्येत् , तस्य तद्वृत्यावृत्तिरूपत्वात् , इति आशङ्क्य आह -

मच्चित्त इति ।

विषयान्तरविषयमनोवृत्त्युपसंहारेण आत्मन्येव तन्नियमनात् न ध्यानानुपपत्तिः, इत्यर्थः ।

मच्चित्तत्वेनैव मत्परस्य सिद्धत्वात् मत्पर इति पृथग्विशेषणम् अनर्थकम् , इत्याशङ्क्य, आह -

भवतीति ।

अन्तःकरणशुद्धिः योगस्य अवान्तरफलम्

॥ १४ ॥