श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम्
वेत्ति यत्र चैवायं स्थितश्चलति तत्त्वतः ॥ २१ ॥
सुखम् आत्यन्तिकं अत्यन्तमेव भवति इत्यात्यन्तिकम् अनन्तमित्यर्थः, यत् तत् बुद्धिग्राह्यं बुद्ध्यैव इन्द्रियनिरपेक्षया गृह्यते इति बुद्धिग्राह्यम् अतीन्द्रियम् इन्द्रियगोचरातीतम् अविषयजनितमित्यर्थः, वेत्ति तत् ईदृशं सुखमनुभवति यत्र यस्मिन् काले, एव अयं विद्वान् आत्मस्वरूपे स्थितः तस्मात् नैव चलति तत्त्वतः तत्त्वस्वरूपात् प्रच्यवते इत्यर्थः ॥ २१ ॥

इन्द्रियनिरपेक्षस्वानुभवगम्यत्वोक्तेः ‘अतीन्द्रिय ‘मिति पुनरुक्तम् , इत्याशङ्क्य, आह -

अविषयेति ।

पदच्छेदः -

न चेत्यादि ।

अपेक्षितपूरणम् -

आत्मस्वरूप इति ।

तस्मात् तत्त्वत इति सम्बन्धः । नैव इति एवकारसम्बन्धोक्तिः । चकारः सप्तम्या सम्बन्धनीयः । इति पूर्ववत् सम्बन्धः

॥ २१ ॥