श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अर्जुन उवाच —
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ ३७ ॥
अयतिः अप्रयत्नवान् योगमार्गे श्रद्धया आस्तिक्यबुद्ध्या उपेतः योगात् अन्तकाले चलितं मानसं मनो यस्य सः चलितमानसः भ्रष्टस्मृतिः सः अप्राप्य योगसंसिद्धिं योगफलं सम्यग्दर्शनं कां गतिं हे कृष्ण गच्छति ॥ ३७ ॥

तर्हि ततो  बहिर्मुखत्वमेव आत्यन्तिकं संवृत्तम् , इत्याश्क्य, आह -

श्रद्धयेति ।

तर्हि योगमार्गम् आश्रयते ? नेत्याह -

योगादिति ।

मरणकाले व्याकुलेन्द्रियस्य ज्ञानसाधनानुष्ठानावकाशाभावात् युक्तं ततश्चलितमानसत्वम् , इत्याशङ्क्य, आह -

भ्रष्टेति ।

गम्यत इति गतिः - पुरुषार्थः, सामान्यप्रश्नम् अन्तर्भाव्यविशेषप्रश्नो द्रष्टव्यः

॥ ३७ ॥