प्रश्नमेव विवृणोति -
कच्चिदिति ।
प्रशस्तप्रश्नार्थत्वं कच्चिदित्यस्य अङ्गीकृत्य व्याचष्टे -
किमिति ।
उभयविभ्रष्टत्वं स्पष्टयति -
कर्मेत्यादिना ।
वायुना छिन्नमु - विशकलितम् अभ्रं यथा नश्यति तद्वत् , इत्याह -
छिन्नेति ।
नाशाशङ्कनिमित्तम् आह -
निराश्रय इति ।
कर्ममार्गरूपावष्टम्भाभावेपि ज्ञानमार्गावष्टम्भः तस्य भविष्यति, इत्याशङ्क्य आह -
विमूढः सन् इति ।
नहि कर्मिणं प्रति इयम् आशङ्का युक्ता, अभिलाषं त्यक्त्वा ईश्वरे समर्प्य वा कर्म अनुतिष्ठतः, निरुपचारेण तद्भ्रंशवचनासम्भवात् । सर्वकर्मसंन्यासिनः तु विहितानां त्यागात् ज्ञानोपायाच्च विच्युतेः अनर्थप्राप्तिशङ्का युक्ता इति भावः
॥ ३८ ॥