श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ ३८ ॥
कच्चित् किं उभयविभ्रष्टः कर्ममार्गात् योगमार्गाच्च विभ्रष्टः सन् छिन्नाभ्रमिव नश्यति, किं वा नश्यति अप्रतिष्ठो निराश्रयः हे महाबाहो विमूढः सन् ब्रह्मणः पथि ब्रह्मप्राप्तिमार्गे ॥ ३८ ॥

प्रश्नमेव विवृणोति -

कच्चिदिति ।

प्रशस्तप्रश्नार्थत्वं कच्चिदित्यस्य अङ्गीकृत्य व्याचष्टे -

किमिति ।

उभयविभ्रष्टत्वं स्पष्टयति -

कर्मेत्यादिना ।

वायुना छिन्नमु - विशकलितम् अभ्रं यथा नश्यति तद्वत् , इत्याह -

छिन्नेति ।

नाशाशङ्कनिमित्तम् आह -

निराश्रय इति ।

कर्ममार्गरूपावष्टम्भाभावेपि ज्ञानमार्गावष्टम्भः तस्य भविष्यति, इत्याशङ्क्य आह -

विमूढः सन् इति ।

नहि कर्मिणं प्रति इयम् आशङ्का युक्ता, अभिलाषं त्यक्त्वा ईश्वरे समर्प्य वा कर्म अनुतिष्ठतः, निरुपचारेण तद्भ्रंशवचनासम्भवात् । सर्वकर्मसंन्यासिनः तु विहितानां त्यागात् ज्ञानोपायाच्च विच्युतेः अनर्थप्राप्तिशङ्का युक्ता इति भावः

॥ ३८ ॥