श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तत्र योगाभ्यासाङ्गीकरणेन इहलोकपरलोकप्राप्तिनिमित्तानि कर्माणि संन्यस्तानि, योगसिद्धिफलं मोक्षसाधनं सम्यग्दर्शनं प्राप्तमिति, योगी योगमार्गात् मरणकाले चलितचित्तः इति तस्य नाशमशङ्क्य अर्जुन उवाच
तत्र योगाभ्यासाङ्गीकरणेन इहलोकपरलोकप्राप्तिनिमित्तानि कर्माणि संन्यस्तानि, योगसिद्धिफलं मोक्षसाधनं सम्यग्दर्शनं प्राप्तमिति, योगी योगमार्गात् मरणकाले चलितचित्तः इति तस्य नाशमशङ्क्य अर्जुन उवाच

प्रश्नान्तरम् उत्थापयति -

तत्रेत्यादिना ।

मनोनिरोधस्य दुःखसाध्यत्वम् आशङ्क्य परिहृते सति, प्रष्टा पुनः अवकाशं प्रतिलभ्य उवाच, इति सम्बन्धः ।

लोकद्वयप्रापककर्मसम्भवे कुतो योगिनो नाशाशङ्का ? इत्याशङ्क्य, आह -

योगाभ्यासेति ।

तथापि योगानुष्ठानपरिपाकपरिप्राप्तिसम्यग्दर्शनसामर्थ्यात् मोक्षोपपत्तौ कुतः तस्य नाशाशङ्का ? इति चेत् , मैवम् , अनेकान्तरायवत्त्वात्  योगस्य इह जन्मनि प्रायेण संसिद्धेः असिद्धिः, इत्यभिसन्धाय आह -

योगसिद्धीति ।

अभ्युदयनिःश्रेयसबहिर्भावो नाशः । योगमार्गे तत्फलस्य सम्यग्दर्शनस्य अदर्शनात् , इति शेषः ।