श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच —
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ १ ॥
मयि वक्ष्यमाणविशेषणे परमेश्वरे आसक्तं मनः यस्य सः मय्यासक्तमनाः, हे पार्थ योगं युञ्जन् मनःसमाधानं कुर्वन् , मदाश्रयः अहमेव परमेश्वरः आश्रयो यस्य सः मदाश्रयः । यो हि कश्चित् पुरुषार्थेन केनचित् अर्थी भवति स तत्साधनं कर्म अग्निहोत्रादि तपः दानं वा किञ्चित् आश्रयं प्रतिपद्यते, अयं तु योगी मामेव आश्रयं प्रतिपद्यते, हित्वा अन्यत् साधनान्तरं मय्येव आसक्तमनाः भवति । यः त्वं एवंभूतः सन् असंशयं समग्रं समस्तं विभूतिबलशक्त्यैश्वर्यादिगुणसम्पन्नं मां यथा येन प्रकारेण ज्ञास्यसि संशयमन्तरेण ‘एवमेव भगवान्’ इति, तत् शृणु उच्यमानं मया ॥ १ ॥

परमेश्वरस्य वक्ष्यमाणविशेषणत्वं सकलजगदायतनत्वादिनानाविधविभूतिभागित्वम् , तत्र आसक्तिः - मनसः विषयान्तरपरिहारेण तन्निष्ठत्वम् । मनसः भगवत्येव आसक्तौ हेतुमाह -

योगमिति ।

विषयान्तरपरिहारे हि गोचरम् आलोच्यमाने भगवत्येव प्रतिष्ठितं भवति इत्यर्थः ।

तथापि स्वाश्रये पुरुषः मनः स्थापयति, नान्यत्र, इत्याशङ्क्य, अाह -

मदाश्रय इति ।

योगिनः यद् ईश्वराश्रयत्वेन तस्मिन्नेव आसक्तमनसस्त्वम् उपन्यस्तम् , तद् उपपादयति -

यो हीति ।

ईश्वराख्याश्रयस्य प्रतिपत्तिमेव प्रकटयति -

हित्वेति ।

अस्तु योगिनः त्वदाश्रयप्रतिपत्त्या मनसः त्वय्येव आसक्तिः, तथापि मम किमायातम् ? इत्याशङ्क्य, द्वितीयार्धं व्याचष्टे -

यस्त्वमेवमिति ।

एवंभूतः - यथोक्तध्याननिष्ठपुरुषवदेव मय्यासक्तमनाः यः त्वं, स त्वं तथाविधस्सन् , असंशयम् - अविद्यमानः संशयः यत्र ज्ञाने तद् यथा स्यात् , तथा, मां समग्रं ज्ञास्यसि इति सम्बन्धः ।

समग्रं इत्यस्य अर्थमाह -

समस्तमिति ।

विभूतिः - नानाविधैश्वर्योपायसम्पत्तिः, बलं - शरीरगतं सामर्थ्यम् , शक्तिः - मनोगतं प्रागल्भ्यं, ऐश्वर्यम् - ईशितव्यविषयम् ईशनसामर्थ्यम् , आदिशब्देन ज्ञानेच्छादयः गृह्यन्ते ।

असंशयमिति पदस्य क्रियाविशेषणत्वं विशदयन् क्रियापदेन सम्बन्धं कथयति -

संशयमिति ।

विना संशयं भगवत्तत्त्वपरिज्ञानमेव स्फोरयति -

एवमेवेति ।

भगवत्तत्त्वे ज्ञातव्ये, कथं मम ज्ञानमुदेष्यति? न हि त्वामृते तदुपदेष्टा कश्चिदस्ति, इत्याशङक्य, आह -

तच्छृण्विति

॥ १ ॥