श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच —
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ १ ॥
‘योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान्भजते यो मां स मे युक्ततमो मतः’ (भ. गी. ६ । ४७) इति प्रश्नबीजम् उपन्यस्य, स्वयमेव ‘ईदृशं मदीयं तत्त्वम् , एवं मद्गतान्तरात्मा स्यात्’ इत्येतत् विवक्षुः श्रीभगवानुवाच —

कर्मसंन्यासात्मकसाधनप्रधानं त्वम्पदार्थप्रधानं च प्रथमषट्कं व्याख्याय, मध्यमषट्कम् उपास्यनिष्ठं तत्पदार्थनिष्ठं च व्याख्यातुम् आरभमाणः, समनन्तराध्यायम् अवतारयति -

योगिनामिति ।

अतीताध्यायान्ते मद्गतेन अन्तरात्मना यो भजते मां इति प्रश्नबीजं प्रदर्श्य, कीदृशं भगवतस्तत्त्वम् ? कथं वा मदूगतान्तरात्मा स्यात् ? इति अर्जुनस्य प्रश्नद्वये जाते, स्वयमेव भगवान् अपृष्टम् एतद्वक्तुम् इच्छन् उक्तवान् इत्यर्थः ।