श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
दैवी ह्येषा गुणमयी मम माया दुरत्यया
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ १४ ॥
दैवी देवस्य मम ईश्वरस्य विष्णोः स्वभावभूता हि यस्मात् एषा यथोक्ता गुणमयी मम माया दुरत्यया दुःखेन अत्ययः अतिक्रमणं यस्याः सा दुरत्ययातत्र एवं सति सर्वधर्मान् परित्यज्य मामेव मायाविनं स्वात्मभूतं सर्वात्मना ये प्रपद्यन्ते ते मायाम् एतां सर्वभूतमोहिनीं तरन्ति अतिक्रामन्ति ; ते संसारबन्धनात् मुच्यन्ते इत्यर्थः ॥ १४ ॥

कथं दुरत्ययत्वेन तदत्ययः स्यात् ? इति, तत्र आह -

मामेवेेति ।

प्रधानस्येव स्वातन्त्र्यं मायाया व्युदस्यति -

देवस्येति ।

स्वातन्त्र्ये मायात्वानुपपत्तिं हिशब्दद्योतितां हेतूकरोति -

यस्मादिति ।

अनुभवसिद्धा सा न अकस्मात् अपलापम् अर्हति, इत्याह -

एषेति ।

जगतः तत्त्वप्रतिपत्तिप्रतिबन्धभूताः गुणाः सत्वादयः ।

‘मम’ इति प्रागुक्तमेव मायायाः सम्बन्धम् अनूद्यविधित्सितं दुरत्ययत्वं विभजते -

दुःखेनेति ।

‘मामेव’ इत्यादि व्याचष्ठे -

तत्रेति ।

तस्मिन् मायारूपे यथोक्तरीत्या दुरत्यये सति, इति यावत् । ‘मामेव’ इति एवकारेण मायाया वेद्यकोटिनिवेशाभावः विवक्ष्यते । सर्वात्मना - कर्मानुष्ठानादिव्यग्रतामन्तरेण, इत्यर्थः ।

मायातिक्रमे मोहातिक्रमो भवति, इति मत्वा विशिनष्टि -

सर्वेति ।

मायातत्प्रयुक्तमोहयोः अतिक्रमेऽपि कथं पुरुषार्थसिद्धिः? इति आशङ्क्य, आह -

संसारेति

॥ १४ ॥