श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ १९ ॥
बहूनां जन्मनां ज्ञानार्थसंस्काराश्रयाणाम् अन्ते समाप्तौ ज्ञानवान् प्राप्तपरिपाकज्ञानः मां वासुदेवं प्रत्यगात्मानं प्रत्यक्षतः प्रपद्यते । कथम् ? वासुदेवः सर्वम् इति । यः एवं सर्वात्मानं मां नारायणं प्रतिपद्यते, सः महात्मा ; न तत्समः अन्यः अस्ति, अधिको वा । अतः सुदुर्लभः, ‘मनुष्याणां सहस्रेषु’ (भ. गी. ७ । ३) इति हि उक्तम् ॥ १९ ॥

ज्ञानवत्वं प्राक्तनेष्वपि जन्मसु सम्भावितम् ,  इत्याशङ्क्य, आह -

प्राप्तेति ।

ज्ञानवतो भगवत्प्रतिपत्तिं प्रश्नद्वारा विवृणोति -

कथमिति ।

यथोक्तज्ञानस्य तद्वतश्च दुर्लभत्वं सूचयति -

य एवमिति ।

महत् - सर्वोत्कृष्टम् आत्मशब्दितं वैभवम् अस्य, इति महात्मा । महात्मत्वे फलितम् आह -

अत इति ।

तत्र वाक्योपक्रमानुकूल्यं कथयति -

मनुष्याणामिति

॥ १९ ॥