श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ज्ञानी पुनरपि स्तूयते —

उत्तरश्लोकस्य गतार्थत्वं परिहरति -

ज्ञानीति ।

ज्ञानार्थसंस्कारः - वासना तत्तज्जन्मनि पुण्यकर्मानुष्ठानजनिता बुद्धिशुद्धिः, तदाश्रयाणां - तद्वताम् अनन्तानां जन्मनाम् , इति यावत् ।