कामफलस्य विनाशित्वे किमिति कामनिष्ठत्वं जन्तूनाम् ? इत्याशङ्क्य, प्रज्ञामान्द्यादित्याह -
अल्पेति ।
किं तर्हि साधनम् अनन्तफलाय इत्याशङ्क्य, भगवद्भक्तिरित्याह -
मद्भक्ता इति ।
अक्षरार्थम् उक्त्वा श्लोकस्य तात्पर्यार्थमाह -
एवमिति ।
देवताप्राप्तौ चेति शेषः ।
मामेव इत्यादौ देवताविशेषं प्रपद्यन्ते अन्तवत्फलाय इति वक्तव्यम् । उक्तवैपरीत्ये कारणम् अविवेकातिरिक्तं नास्ति इत्यभिप्रेत्य आह -
अहो खल्विति
॥ २३ ॥