श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अन्तवत्तु फलं तेषां
तद्भवत्यल्पमेधसाम्
देवान्देवयजो यान्ति
मद्भक्ता यान्ति मामपि ॥ २३ ॥
अन्तवत् विनाशि तु फलं तेषां तत् भवति अल्पमेधसां अल्पप्रज्ञानाम्देवान्देवयजो यान्ति देवान् यजन्त इति देवयजः, ते देवान् यान्ति, मद्भक्ता यान्ति मामपिएवं समाने अपि आयासे मामेव प्रपद्यन्ते अनन्तफलाय, अहो खलु कष्टं वर्तन्ते, इत्यनुक्रोशं दर्शयति भगवान् ॥ २३ ॥

कामफलस्य विनाशित्वे किमिति कामनिष्ठत्वं जन्तूनाम् ? इत्याशङ्क्य, प्रज्ञामान्द्यादित्याह -

अल्पेति ।

किं तर्हि साधनम् अनन्तफलाय इत्याशङ्क्य, भगवद्भक्तिरित्याह -

मद्भक्ता इति ।

अक्षरार्थम् उक्त्वा श्लोकस्य तात्पर्यार्थमाह -

एवमिति ।

देवताप्राप्तौ चेति शेषः ।

मामेव इत्यादौ देवताविशेषं प्रपद्यन्ते अन्तवत्फलाय इति वक्तव्यम् । उक्तवैपरीत्ये कारणम् अविवेकातिरिक्तं नास्ति इत्यभिप्रेत्य आह -

अहो खल्विति

॥ २३ ॥