श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
साधिभूताधिदैवं मां साधियज्ञं ये विदुः
प्रयाणकालेऽपि मां ते विदुर्युक्तचेतसः ॥ ३० ॥
साधिभूताधिदैवम् अधिभूतं अधिदैवं अधिभूताधिदैवम् , सह अधिभूताधिदैवेन वर्तते इति साधिभूताधिदैवं मां ये विदुः, साधियज्ञं सह अधियज्ञेन साधियज्ञं ये विदुः, प्रयाणकाले मरणकाले अपि मां ते विदुः युक्तचेतसः समाहितचित्ता इति ॥ ३० ॥

न केवलं भगवन्निष्ठानां सर्वाध्यात्मिककर्मात्मकब्रह्मवित्त्वमेव, किन्तु अधिभूतादि सहितं तद्वेदित्वमपि सिध्यति, इत्याह -

साधिभूतेति ।

अध्यात्मम् , कर्म, अधिभूतम् , अधिदैवम् , अधियज्ञश्च इति पञ्चकम् एतद्ब्रह्म ये विदुः, तेषां यथोक्तज्ञानवतां समाहितचेतसाम् आपदवस्थायामपि भगवत्तत्त्वज्ञानम् अप्रतिहतं तिष्ठति, इत्याह -

प्रयाणेति ।

अपि, च, इति निपाताभ्याम् , तस्याम् अवस्थायां करणग्रामस्य व्यग्रतया ज्ञानासम्भवेऽपि मयि समाहितचित्तानाम् उक्तज्ञानवतां भगवत्तत्त्वज्ञानम् अयत्नलभ्यम् , इति द्योत्यते । तद् अनेन सप्तमेन उत्तमम् अधिकारिणं प्रति ज्ञेयं निरूपयता तदर्थमेव सर्वात्मकत्वादिकम् उपदिशता प्रकृतिद्वयद्वारेण सर्वकारणत्वात् इति च वदता तत्पदवाच्यं तल्लक्ष्यं च उपक्षिप्तम् ॥ ३० ॥

इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने सप्तमोऽध्यायः ॥ ७ ॥