श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम्
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ ६ ॥
यं यं वापि यं यं भावं देवताविशेषं स्मरन् चिन्तयन् त्यजति परित्यजति अन्ते अन्तकाले प्राणवियोगकाले कलेबरं शरीरं तं तमेव स्मृतं भावमेव एति नान्यं कौन्तेय, सदा सर्वदा तद्भावभावितः तस्मिन् भावः तद्भावः भावितः स्मर्यमाणतया अभ्यस्तः येन सः तद्भावभावितः सन् ॥ ६ ॥

कथं पुनः अन्तकाले परवशस्य नियतविषयस्मृतिः भवितुमुत्सहते, तत्राह -

सदा इति ।

देवादिविशेषः तस्मिन् इति सप्तम्यर्थः । भावः - भावना - वासना, सः भावः भावितः सम्पादितः, येन पुंसा, सः तथाविधः सन् यं यं भावं स्मरति, तं तम् एव देहत्यागादूर्ध्वं गच्छति, इति सम्बन्धः

॥ ६ ॥