श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यस्मात् एवम् अन्त्या भावना देहान्तरप्राप्तौ कारणम्
यस्मात् एवम् अन्त्या भावना देहान्तरप्राप्तौ कारणम्

सततभावना प्रतिनियतफलप्राप्तिनिमित्तान्त्यप्रत्ययहेतुः, इति अङ्गीकृत्य अनन्तरश्लोकम् अवतारयति -

यस्मादिति ।

विशेषणत्रयवतः भगवदनुस्मरणस्य भगवत्प्राप्तिहेतुत्व तस्मात् इत्युच्यते । सर्वेषु कालेषु आदरनैरन्तर्याभ्यां सह, इति यावत् । भगवदनुस्मरणेे विशेषणत्रयसाहित्यं यथाशास्त्रमिति द्योत्यते ।