श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ॥ ७ ॥
तस्मात् सर्वेषु कालेषु माम् अनुस्मर यथाशास्त्रम्युध्य युद्धं स्वधर्मं कुरुमयि वासुदेवे अर्पिते मनोबुद्धी यस्य तव त्वं मयि अर्पितमनोबुद्धिः सन् मामेव यथास्मृतम् एष्यसि आगमिष्यसि ; असंशयः संशयः अत्र विद्यते ॥ ७ ॥

भगवदनुसन्धानं कर्तव्यम् उक्त्वा, तेन सह स्वधर्ममपि कुरु युद्धम् इति उपदिशता भगवता समुच्चयः ज्ञानकर्मणोः अङ्गीकृतो भाति, इत्याशङ्क्य, आह -

मयीति ।

मनोबुद्धिगोचरं क्रियाकारकफलजातं सकलमपि ब्रह्मैव, इति भावयन् , युध्यस्व इति ब्रुवता क्रियादिकलापस्य ब्रह्मातिरिक्तस्य अभावाभिलापात् नात्र समुच्चयो विवक्षितः, इत्यर्थः ।

उक्तरीत्या स्वधर्मम् अनुवर्तमानस्य प्रयोजनम् आह –

मामेवेति ।

उक्तसाधनवशात् फलप्राप्तौ प्रतिबन्धाभावं सूचयति -

असंशय इति

॥  ७ ॥