कान्तदर्शित्वम् - अतीतादेरशेषस्य वस्तुनो दर्शनशालित्वम् । तेन निष्पन्नम् अर्थम् आह -
सर्वज्ञमिति ।
चिरन्तनम् - आदिमतः सर्वस्य कारणत्वात् अनादिम् , इत्यर्थः । सूक्ष्मम् आकाशादि, ततः सूक्ष्मतरम् , तदुपादानत्वात् , इत्यर्थः । यो यथोक्तम् अनुचिन्तयेत् , स तमेव अनुचिन्तयन् याति, इति पूर्वेणैव सम्बन्ध इति योजना ।
ननु - विशिष्टजात्यादिमतो यथोक्तम् अनुचिन्तनं फलवद्भवति, न तु अस्मदादीनाम् , इत्याशङ्क्य़, आह -
यः कश्चिदिति ।
‘फलमत उपपत्तेः’ (ब्र. सू. ३-२-३८) इति न्यायेन आह -
सर्वस्येति ।
‘एतदप्रमेयं ध्रुवम् ‘ (बृ० उ० ४ - ४ - २०) इति श्रुतिम् आश्रित्य आह -
अचिन्त्यरूपमिति ।
न हि परस्य किञ्चिदपि रूपादि वस्तुतोऽस्ति, ‘अरूपवदेव हि ‘ (ब्र. सू. ३ - २ - १४) इति न्यायात् ।
कल्पितमपि न अस्मदादिभिः शक्यते चिन्तयितुम् , इत्याह -
नास्येति ।
मूलकारणात् अज्ञानात् तत्क्रार्यच्च परस्तात् - उपरिष्टात् व्यवस्थितं परमार्थतोऽज्ञानतत्कार्यास्पृष्ठम् इत्याह -
तमस इति
॥ ९ ॥