अविषये प्रतीचि ब्रह्मणि वेदार्थविदामपि कथं वचनम् ? इत्याशङ्क्य, अविषयत्वम् अत्यक्त्वैव इति मत्वा, श्रुतिम् उदाहरति -
तद्वेति ।
तथापि तस्मिन् अविषये सर्वविशेषशून्ये वचनम् अनुचितम् इत्याशङ्क्य, आह -
सर्वेति ।
न केवलं विद्वदनुभवसिद्धं यथोक्तं ब्रह्म, किन्तु मुक्तोपसृप्यतया मुक्तानामपि प्रसिद्धम् , इत्याह -
किञ्चेति ।
केषां पुनः संन्यासित्वम् ? तदाह -
वीतरागा इति ।
ज्ञानार्थं ब्रह्मचर्यविधानादपि ब्रह्म ज्ञेयत्वेन प्रसिद्धम् इत्याह -
यच्चेति ।
कथं तर्हि यथोक्तं ब्रह्म मम ज्ञातुं शक्यम् ? इति आकुलितचेतसम् अर्जुनं प्रति आह -
तत्ते पदमिति
॥ ११ ॥