यदक्षरं वेदविदो वदन्ति
विशन्ति यद्यतयो वीतरागाः ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ ११ ॥
यत् अक्षरं न क्षरतीति अक्षरम् अविनाशि वेदविदः वेदार्थज्ञाः वदन्ति, ‘तद्वा एतदक्षरं गार्गि ब्राह्मणा अभिवदन्ति’ (बृ. उ. ३ । ८ । ८) इति श्रुतेः, सर्वविशेषनिवर्तकत्वेन अभिवदन्ति ‘अस्थूलमनणु’ इत्यादि । किञ्च — विशन्ति प्रविशन्ति सम्यग्दर्शनप्राप्तौ सत्यां यत् यतयः यतनशीलाः संन्यासिनः वीतरागाः वीतः विगतः रागः येभ्यः ते वीतरागाः । यच्च अक्षरमिच्छन्तः — ज्ञातुम् इति वाक्यशेषः — ब्रह्मचर्यं गुरौ चरन्ति आचरन्ति, तत् ते पदं तत् अक्षराख्यं पदं पदनीयं ते तव सङ्ग्रहेण सङ्ग्रहः सङ्क्षेपः तेन सङ्क्षेपेण प्रवक्ष्ये कथयिष्यामि ॥ ११ ॥