श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यो वै तद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत कतमम् वाव तेन लोकं जयतीति । ’ (प्र. उ. ५ । १)तस्मै होवाच एतद्वै सत्यकाम परं चापरं ब्रह्म यदोङ्कारः’ (प्र. उ. ५ । २) इत्युपक्रम्य यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत सामभिरुन्नीयते ब्रह्मलोकम्’ (प्र. उ. ५ । ५) इत्यादिना वचनेन, अन्यत्र धर्मादन्यत्राधर्मात्’ (क. उ. १ । २ । १४) इति उपक्रम्य सर्वे वेदा यत्पदमामनन्तितपांसि सर्वाणि यद्वदन्तियदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीम्योमित्येतत्’ (क. उ. १ । २ । १५) इत्यादिभिश्च वचनैः परस्य ब्रह्मणो वाचकरूपेण, प्रतिमावत् प्रतीकरूपेण वा, परब्रह्मप्रतिपत्तिसाधनत्वेन मन्दमध्यमबुद्धीनां विवक्षितस्य ओङ्कारस्य उपासनं कालान्तरे मुक्तिफलम् उक्तं यत् , तदेव इहापि कविं पुराणमनुशासितारम्’ (भ. गी. ८ । ९) यदक्षरं वेदविदो वदन्ति’ (भ. गी. ८ । ११) इति उपन्यस्तस्य परस्य ब्रह्मणः पूर्वोक्तरूपेण प्रतिपत्त्युपायभूतस्य ओङ्कारस्य कालान्तरमुक्तिफलम् उपासनं योगधारणासहितं वक्तव्यम् , प्रसक्तानुप्रसक्तं यत्किञ्चित् , इत्येवमर्थः उत्तरो ग्रन्थ आरभ्यते

‘वक्ष्यमाणेन उपायेन’ इत्युक्तं व्यक्तीकुर्वन् ओङ्कारद्वारा ब्रह्मोपासनं श्रुत्युक्तम् अनुक्रामति -

सयो हेति ।

सत्यकामेन अभिध्यानफलं जिज्ञासुना भगवन्निति पिप्पलादः सम्बोध्य अभिमुखीक्रियते ।निपातौ तु प्रसिद्धम् अर्थमेव द्योतयन्तौ अभिध्यानस्य फलवत्वेन कर्तव्यत्वम् आवेदयतः । मनुष्येषु मध्ये सः, यो अधिकृतः मनुष्यः, तत् - प्रसिद्धम् अभिध्यानं यथा सिद्ध्यति, तथा सर्ववेदसारभूतम् ओङ्कारम् आभिमुख्येन ध्यायीत । तच्च अभिध्यानम्‘आप्रायणा ‘दिति न्यायेन मरणान्तम् अनुष्ठेयम् । स चैवम् अनुतिष्ठन्प्रकृतेन अभिध्यानेन लोकानां जेतव्यानां बहुत्वात् , कतमं लोकं जयति ? इति प्रश्नं पृष्टवते सत्यकामाय पिप्पलादनामा किल आचार्यः प्रतिवचनं प्रोवाच । तत्र प्रथमम् अभिध्येयम् ओङ्कारं परापरब्रह्मत्वेन महीकरोति -

एतद्वा इति ।

त्रिमात्रेण - अकारोकारमकारात्मकेन, इति यावत् । योऽभिध्यायीत, तमेव यथाभिध्यातं पुरुषम् अधिगच्छति, इत्यादिवचनेन उपासनम् ओङ्कारस्य उक्तम् , इत्यर्थः ।

प्रश्नश्नुतिवत् कठवल्ली च तत्रैवार्थे प्रवृत्ता, इत्याह -

अन्यत्रेति ।

अव्यवधानेन उपनिषदाम् , व्यवधानेन च कर्मश्रुतीनां परस्मिन् आत्मनि पर्यवसानं दर्शयति-

सर्व इति ।

तपसामपि सर्वेषां चित्तशुद्धिद्वारा तत्रैव पर्यवसानम् , इत्याह -

तपांसीति ।

तस्यैव च ज्ञानार्थम् अष्टाङ्गं ब्रह्मचर्य तत्र तत्र विहितम् , इत्याह -

यदिच्छन्त इति ।

तस्य पदनीयस्य ब्रह्मणः सङ्क्षेपेण कथनम् ओङ्कारद्वारकम् , इति कथयति -

ओमित्येतदिति ।

उदाहृतवचनानां तात्पर्यं दर्शयति-

परस्येति ।

तस्य वाचकरूपेण वा तस्यैव प्रतीकरूपेण वा विवक्षितस्य उपासनं यथोक्तैः वचनैः उक्तम् , इति सम्बन्धः ।

ननु - परस्मिन् ब्रह्मणि तत्वमस्यादिवाक्यादेव प्रतिपत्तिः अधिकारिणो भविष्यति, किमिति उपासनम् ओङ्कारस्य उपन्यस्यते ? तत्र आह -

परेति ।

यद्यपि विशिष्टाधिकारिणो विनैव उपासनं ब्रह्मणि प्रतिपत्तिः उत्पद्यते, तथापि मन्दानां मध्यमानां च तद्धीहेतुत्वेन ओङ्कारो विवक्षितः । तच्च उपासनं ब्रह्मदृष्ट्या श्रुतिभिरुपदिष्टम् , इत्यर्थः ।

तस्य क्रममुक्तिफलत्वात् अनुष्ठेयत्वं सूचयति -

कालान्तरेति ।

भवत्वेवं श्रुतीनां प्रवृत्तिः, तावता प्रकृते किमायातम् ? इत्याशङ्क्य, आह -

उक्तं यदिति ।

तदेव इहापि वक्तव्यम् , इति उत्तरेण सम्बन्धः ।

उपासनमेव उपास्योपन्यासद्वारा स्फोरयति -

कविमित्यादिना ।

पूर्वोक्तरूपेणेति - अभिधानत्वेन प्रतीकत्वेन च, इत्यर्थः ।

श्रौतस्य उपासनस्य अनूद्यमानस्य सोपस्करत्वं सङ्गिरते -

योगेति ।

तर्हि कथम् - ‘अनन्यचेताः सततम् ‘ इत्यादि वक्ष्यते तत्र आह -

प्रसक्तेति ।

ओङ्कारोपसनं प्रसक्तम् , तदनन्तरं तत्फलम् अनुप्रसक्तम् , तद् - द्वारा च अपुनरावृत्त्यादि वक्तव्यकोटिनिविष्टम् , इत्यर्थः ।

इत्येवमर्थ इति ।