श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अनन्यचेताः सततं यो मां स्मरति नित्यशः
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ १४ ॥
अनन्यचेताः अन्यविषये चेतः यस्य सोऽयम् अनन्यचेताः, योगी सततं सर्वदा यः मां परमेश्वरं स्मरति नित्यशःसततम् इति नैरन्तर्यम् उच्यते, नित्यशः इति दीर्घकालत्वम् उच्यते षण्मासं संवत्सरं वा ; किं तर्हि ? यावज्जीवं नैरन्तर्येण यः मां स्मरतीत्यर्थःतस्य योगिनः अहं सुलभः सुखेन लभ्यः हे पार्थ, नित्ययुक्तस्य सदा समाहितचित्तस्य योगिनःयतः एवम् , अतः अनन्यचेताः सन् मयि सदा समाहितः भवेत् ॥ १४ ॥

सततम् , नित्यश इति विशेषणयोः अपुनरुक्तत्वम् आह -

सततमित्यादिना ।

उक्तमेव अपौनरूक्त्यं व्यक्तीकरोति -

नेत्यादिना ।

जितासुः इच्छया देहं त्यजति, तदितरस्तु कर्मक्षयेणैव इति विशेषं विवक्षयन् आह-

यत इति ।

अनन्यचेतसम् - समाहितचेतसं प्रति, ईश्वरस्य सौलभ्यम्एवमित्युच्यते

॥ १४ ॥