ईश्वरोपगमनं न सामीप्यमात्रम् , इति व्याचष्टे -
मद्भावमिति ।
पुनर्जन्मनः अनिष्टत्वं प्रश्नद्वारा स्पष्टयति -
किमित्यादिना ।
महात्मत्वम् - प्रकृष्टसत्ववैशिष्ट्यम् । यतयः तस्मिन्नेव ईश्वरे समुत्पन्नसम्यग्दर्शिनो भूत्वा, इति शेषः ।
भगवन्तम् उपगतानाम् अपुनरावृ्त्तौ, ततो विमुखानाम् अनुपजातसम्यग्धियां पुनरावृत्तिः अर्थसिद्धा, इत्याह -
ये पुनरिति
॥ १५ ॥