श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन
मामुपेत्य तु कौन्तेय पुनर्जन्म विद्यते ॥ १६ ॥
ब्रह्मभुवनात् भवन्ति अस्मिन् भूतानि इति भुवनम् , ब्रह्मणो भुवनं ब्रह्मभुवनम् , ब्रह्मलोक इत्यर्थः, ब्रह्मभुवनात् सह ब्रह्मभुवनेन लोकाः सर्वे पुनरावर्तिनः पुनरावर्तनस्वभावाः हे अर्जुनमाम् एकम् उपेत्य तु कौन्तेय पुनर्जन्म पुनरुत्पत्तिः विद्यते ॥ १६ ॥

एतेन भूरादिलोकचतुष्टयं प्रविष्टानां पुनरावृत्तावपि जनआदिलोकत्रयं प्राप्तानाम् अपुनरावृत्तिः, इति विभागोक्तिः अप्रामाणिकत्वादेव हेया, इत्यवधेयम् । तर्हि तद्वदेव ईश्वरं प्राप्तानामपि पुनरावृत्तिः शङ्क्यते ? नेत्याह-

मामिति ।

यावत्सम्पातश्रुतिवत् ईश्वरं प्राप्तानां निवृत्ताविद्यानां पुनरावृत्तिः अप्रामाणिकी, इत्यर्थः । यस्य स्वाभाविकी वंशप्रयुक्ता च शुद्धिः तस्यैव उक्ते अर्थे बुद्धिरुदेति, इति मत्वा सम्बुद्धिद्वयम्

॥ १६ ॥