श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ १७ ॥
सहस्रयुगपर्यन्तं सहस्राणि युगानि पर्यन्तः पर्यवसानं यस्य अह्नः तत् अहः सहस्रयुगपर्यन्तम् , ब्रह्मणः प्रजापतेः विराजः विदुः, रात्रिम् अपि युगसहस्रान्तां अहःपरिमाणामेवके विदुरित्याहते अहोरात्रविदः कालसङ्ख्याविदो जनाः इत्यर्थःयतः एवं कालपरिच्छिन्नाः ते, अतः पुनरावर्तिनो लोकाः ॥ १७ ॥

यथोक्ताहोरात्रावयवमासर्त्वयनसंवत्सरावयवशतसङ्ख्यायुरवच्छिन्नत्वात् प्रजापतेः तदन्तर्वर्तिनामपि लोकानां यथायोग्यकालपरिच्छिन्नत्वेन पुनरावृत्तिः, इत्यभिप्रेत्य व्याचष्टे -

सहस्रेत्यादिना ।

अक्षरार्थम् उक्त्वा, तात्पर्यार्थम् आह -

यत इति

॥ १७ ॥