श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ १८ ॥
अव्यक्तात् अव्यक्तं प्रजापतेः स्वापावस्था तस्मात् अव्यक्तात् व्यक्तयः व्यज्यन्त इति व्यक्तयः स्थावरजङ्गमलक्षणाः सर्वाः प्रजाः प्रभवन्ति अभिव्यज्यन्ते, अह्नः आगमः अहरागमः तस्मिन् अहरागमे काले ब्रह्मणः प्रबोधकालेतथा रात्र्यागमे ब्रह्मणः स्वापकाले प्रलीयन्ते सर्वाः व्यक्तयः तत्रैव पूर्वोक्ते अव्यक्तसंज्ञके ॥ १८ ॥

अव्यक्तम् अव्याकृतम् इतिशङ्कां वारयति -

अव्यक्तमित्यादिना ।

जातिप्रतियोगिभूता व्यक्तीः व्यावर्तयति -

स्थावरेति ।

असदुत्पत्तिप्रसक्तिं प्रत्यादिशति -

अभिव्यज्यन्त इति ।

पूर्वोक्तम् अव्यक्तसंज्ञकं स्वापावस्थं ब्रह्म प्रजापतिशब्दितम् , तस्मिन्निति यावत्

॥ १८ ॥