श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
भूतग्रामः एवायं भूत्वा भूत्वा प्रलीयते
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ १९ ॥
भूतग्रामः भूतसमुदायः स्थावरजङ्गमलक्षणः यः पूर्वस्मिन् कल्पे आसीत् एव अयं नान्यःभूत्वा भूत्वा अहरागमे, प्रलीयते पुनः पुनः रात्र्यागमे अह्नः क्षये अवशः अस्वतन्त्र एव, हे पार्थ, प्रभवति जायते अवश एव अहरागमे ॥ १९ ॥

समनन्तरवाक्यम्इदमा परामृश्यते । रात्र्यागमे प्रलयम् अनुभवतः अहरागमे च प्रभवं प्रतिपद्यमानस्य प्रणिवर्गस्य तुल्यं पारवश्यम् , इत्याशयवान् आह -

अह्न इति

॥ १९ ॥