श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यत् उपन्यस्तम् अक्षरम् , तस्य प्राप्त्युपायो निर्दिष्टः ओमित्येकाक्षरं ब्रह्म’ (भ. गी. ८ । १३) इत्यादिनाअथ इदानीम् अक्षरस्यैव स्वरूपनिर्दिदिक्षया इदम् उच्यते, अनेन योगमार्गेण इदं गन्तव्यमिति
यत् उपन्यस्तम् अक्षरम् , तस्य प्राप्त्युपायो निर्दिष्टः ओमित्येकाक्षरं ब्रह्म’ (भ. गी. ८ । १३) इत्यादिनाअथ इदानीम् अक्षरस्यैव स्वरूपनिर्दिदिक्षया इदम् उच्यते, अनेन योगमार्गेण इदं गन्तव्यमिति

‘अक्षरं ब्रह्म परमम् ‘ इत्युपक्रम्य, तदनुपयुक्तं किमिदम् अन्यदुक्तम् , इत्याशङ्क्य वृत्तम् अनूद्य अनन्तरग्रन्थसङ्गतिम् आह -

यदुपन्यस्तमिति ।

अक्षरस्वरूपे निर्दिदिक्षिते, तस्मिन् पूर्वोक्तयोगमार्गस्य कथम् उपयोगः स्यात् , इत्याशङ्क्य, तत्प्राप्त्युपायत्वेन इत्याह -

अनेनेति ।

गन्तव्यमिति योगमार्गोक्तिः उपयुक्ता, इति शेषः । पूर्वोक्ताम् अव्यक्तात् इति सम्बन्धः ।