श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः
यः सर्वेषु भूतेषु नश्यत्सु विनश्यति ॥ २० ॥
परः व्यतिरिक्तः भिन्नः ; कुतः ? तस्मात् पूर्वोक्तात्तु—शब्दः अक्षरस्य विवक्षितस्य अव्यक्तात् वैलक्षण्यविशेषणार्थःभावः अक्षराख्यं परं ब्रह्मव्यतिरिक्तत्वे सत्यपि सालक्षण्यप्रसङ्गोऽस्तीति तद्विनिवृत्त्यर्थम् आहअन्यः इतिअन्यः विलक्षणः अव्यक्तः अनिन्द्रियगोचरः । ‘परस्तस्मात्इत्युक्तम् ; कस्मात् पुनः परः ? पूर्वोक्तात् भूतग्रामबीजभूतात् अविद्यालक्षणात् अव्यक्तात्अन्यः विलक्षणः भावः इत्यभिप्रायःसनातनः चिरन्तनः यः सः भावः सर्वेषु भूतेषु ब्रह्मादिषु नश्यत्सु विनश्यति ॥ २० ॥

परशब्दस्य व्यतिरिक्तविषयत्वे तुशब्देन वैलक्षण्यम् उक्त्वा पुनः अन्यशब्दप्रयोगात् पौनरुक्त्यम् , इत्याशङ्क्य, आह -

व्यतिरिक्तत्व इति ।

तुनाद्योतितं वैलक्षण्यम् अन्यशब्देन प्रकटितम् । यतो भिन्नेष्वपि भावभेदेषु सालक्षण्यम् आलक्ष्यते, ततश्च अव्यक्तात् भिन्नत्वेऽपि ब्रह्मणः तेन सादृश्यम् आशङ्क्यते, तन्निवृत्त्यर्थम् अन्यपदम् , इत्यर्थः । यद्वा परशब्दस्य प्रकृष्टवाचिनो भावविशेषणार्थत्वे पुनरुक्तिशङ्कैव नास्ति, इति द्रष्टव्यम् ।

अनादिभावस्य अक्षरस्य अविनाशित्वाम् अर्थसिद्धं समर्थयते -

यः स भाव इति ।

सर्वं हि विनश्यद्विकारजातं पुरुषान्तं विनश्यति, स तु विनाशहेत्वभावान्न विनष्टम् अर्हति, इत्यर्थः

॥ २० ॥