यथोक्ते अव्यक्ते भावे श्रुतिसंमतिम् आह -
अव्यक्त इति ।
तस्य परमगतित्वं साधयति-
यं प्रप्येति ।
योऽसौ अव्यक्तो भावोऽत्र दर्शितः, सः ‘येनाक्षरं पुरुषं वेद सत्यम् ‘ (मु.उ. १-२-१३) इत्यादिश्रुतौ अक्षर इत्युक्तः । तं चाक्षरं भावम् , परमां गतिम् , ‘पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः’ (क. उ. १-३-११) इत्याद्याः श्रुतयो वदन्ति, इत्याह -
योऽसाविति ।
परमपुरुषस्य परमगतित्वम् उक्तं व्यनक्ति -
यं भावमिति ।