श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
प्रकृतानां योगिनां प्रणवावेशितब्रह्मबुद्धीनां कालान्तरमुक्तिभाजां ब्रह्मप्रतिपत्तये उत्तरो मार्गो वक्तव्य इतियत्र कालेइत्यादि विवक्षितार्थसमर्पणार्थम् उच्यते, आवृत्तिमार्गोपन्यासः इतरमार्गस्तुत्यर्थः
प्रकृतानां योगिनां प्रणवावेशितब्रह्मबुद्धीनां कालान्तरमुक्तिभाजां ब्रह्मप्रतिपत्तये उत्तरो मार्गो वक्तव्य इतियत्र कालेइत्यादि विवक्षितार्थसमर्पणार्थम् उच्यते, आवृत्तिमार्गोपन्यासः इतरमार्गस्तुत्यर्थः

ननु ज्ञानायत्ता परमपुरुषप्राप्तिः उक्ता । न च ज्ञानं मार्गम् अपेक्ष्य फलाय कल्पते, विदुषो गत्युत्क्रान्तिनिषेधश्रुतेः । तथा च मार्गोक्तिः अयुक्ता, इत्याशङ्क्य, सगुणशरणानां तदुपदेशो अर्थवान् , इत्यभिप्रेत्य आह -

प्रकृतानामिति ।

वक्तव्य इति, यत्र काले इत्याद्युच्यत इति सम्बन्धः ।

स चेद्वक्तव्यः, तर्हि किमिति अध्यात्मादिभावेन सविशेषं ब्रह्म ध्यायतां फलाप्तये मूर्धन्यनाडीसम्बद्धे देवयाने पथि उपास्यत्वाय वक्तव्ये कालो निर्दिश्यते ? तत्र आह -

विवक्षितेति ।

सोऽर्थो मार्गः, तदुक्तिशेषत्वेन कालोक्तिः इत्यर्थः ।

पितृयाणमार्गोपन्यासः तर्हि किमिति क्रियते ? तत्र आह-

आवृत्तीति ।

मार्गान्तरस्य आवृत्तिफलत्वात् , अस्य च अनावृत्तिफलत्वात् तदपेक्षया महीयान् अयम् , इति स्तुतिर्विवक्षिता इति भावः ।