योगिन इति ध्यायिनां कर्मिणां च तन्त्रेण अभिधानम् , इत्याह -
योगिन इति ।
कथं कर्मिषु योगशब्दो वर्तताम् ? , इत्याशङ्क्य, अनुष्ठानगुणयोगात् इत्याह-
कर्मिणस्त्विति ।
गुणतो योगिन इति सम्बन्धः ।
तत्रैव वाक्योपक्रमस्य आनुकूल्यम् आह -
कर्मयोगेनेति ।
अवशिष्टानि अक्षराणि व्याचक्षाणो वाक्यार्थम् आह -
यत्रेति ।
योगिनो ध्यायिनोऽत्र विवक्षिताः, आवृतौ अधिकृता योगिनः कर्मिण इति विभागः ।
काल - प्राधान्येन मार्गद्वयोपन्यासम् उपक्रम्य तमेव प्रधानीकृत्य देवयानं पन्थानम् अवतारयति -
तं कालमिति
॥ २३ ॥