यथोपक्रमं व्याख्याय यथाश्रुतं व्याख्याति -
अथवेति ।
कथं तर्हि देवतानां अतिनेत्रीणां ग्रहणे कालप्राधान्येन निर्देशः श्लिष्यते ? तत्र आह -
भूयसां त्विति ।
मार्गद्वयेऽपि कालाद्यभिमानिन्यो देवताः कालशब्देन उच्यन्ते । कालाभिमानिनीनां भूयस्त्वात् कालशब्देन सर्वासां देवतानाम् उपलक्षणत्वं विवक्षित्वा कालकथनम् इत्यर्थः ।
यथा आम्राणां भूयस्त्वात् विद्यमानेष्वपि द्रुमान्तरेषु आम्रैरेव वनं निर्दिश्यते, तद्वत् इति उदाहरणम् आह -
आम्रेति ।
ननु मार्गचिह्नानां भोगभूमीनां वा तत्तच्छब्दैः उपादानसम्भवे किमिति देवताग्रहणम् ? इत्याशङ्क्य, ‘अतिवाहिकस्तल्लिङ्गात्’ (ब्र.सू. ४-३-४) इति न्यायेन उत्तरम् आह -
इति स्थित इति ।
तेषाम् अग्न्यादीनां समीपम् , इति सामीप्ये ‘तत्र’ इति सप्तमी । ब्रह्म कार्योपाधिकम् , परं वा ब्रह्म परम्परया मुक्त्यालम्बनम् । अत एव ‘क्रमेण’ इत्युक्तम् ।
निर्गुणम् अप्रपञ्चं ब्रह्मस्मि, इति विद्यावतो व्यवच्छिनत्ति -
ब्रह्मोपासनेति ।
ननु ब्रह्मशब्दस्य मुख्यार्थत्वार्थं परब्रह्मविदामेव इयं गतिः उच्यते, न बादर्यधिकरणविरोधात् इत्याह -
न हीति
॥ २४ ॥