प्रकृतं देवयानं पन्थानं स्तोतुं पितृयाणम् उपन्यस्यति-
धूम इति ।
अत्रापि मार्गचिह्नानि भोगभूमीश्च व्यवच्छिद्य आतिवाहिकदेवताविषयत्वं धूमादिपदानां विभजते -
धूमेत्यादिना ।
तत्रेति सप्तमी पूर्ववदेव सामीप्यार्था, ‘इष्टादि’ इत्यादिशब्देनपूर्तदत्तेगृह्येते । ‘कृतात्ययेऽनुशयवान् ‘(ब्र. सू. ३ - १ - ८) इति न्यायं सूचयति -
तत्क्षयादिति
॥२५॥