श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते
एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ २६ ॥
शुक्लकृष्णे शुक्ला कृष्णा शुक्लकृष्णे, ज्ञानप्रकाशकत्वात् शुक्ला, तदभावात् कृष्णा ; एते शुक्लकृष्णे हि गती जगतः इति अधिकृतानां ज्ञानकर्मणोः, जगतः सर्वस्यैव एते गती सम्भवतः ; शाश्वते नित्ये, संसारस्य नित्यत्वात् , मते अभिप्रेतेतत्र एकया शुक्लया याति अनावृत्तिम् , अन्यया इतरया आवर्तते पुनः भूयः ॥ २६ ॥

आरोहावरोहयोः अभ्यासवाचिना पुनश्शब्देन संसारस्य अनादित्वं सूच्यतेे । रात्र्यादौ मृतानां ब्रह्मविदाम् अब्रह्मप्राप्तिशङ्कानिवृत्त्यर्थम् अभिमानिदेवताग्रहणाय मार्गयोः नित्यत्वम् आह -

शुक्लेति ।

ज्ञानप्रकाशकत्वात् - विद्याप्रप्यत्वात् अर्चिरादिप्रकाशोपलक्षितत्त्वाच्च, शुक्ला देवयानाख्या गतिः । तदभावात् - ज्ञानप्रकाशकत्वाभावात् धूमाद्यप्रकाशोपलक्षितत्वात् अविद्याप्राप्यत्वाच्च, कृष्णा पितृयाणलक्षणा गतिः । तयोर्गत्योः श्रुतिस्मृतिप्रसिद्ध्यर्थो हिशब्दः ।

जगच्छब्दस्य ज्ञानकर्माधिकृतविषयत्वेन सङ्कोचे हेतुम् आह -

न जगत इति ।

अन्यथा ज्ञानकर्मोपदेशानर्थक्यात् , इत्यर्थः ।

तयोर्नित्यत्वे हेतुम् आह  -

संसारस्येति ।

मार्गयोः यावत्संसारभावित्वे फलितम् आह -

तत्रेति ।

क्रममुक्तिः - अनावृतिः । भूयः - भोक्तव्यकर्मक्षये शेषकर्मदशात् , इत्यर्थः

॥ २६ ॥