श्रद्धाविवृद्ध्यर्थं योगं स्तौति -
श्रृण्विति ।
पवित्रपाणित्वप्राङ्मुखत्वादिसाहित्यम् अध्ययनस्य सम्यक्त्वम् । अङ्गोपाङ्गोपेतत्वम् अनुष्ठानस्य साद्गुण्यम् । तपसां सुतप्तत्वं मनोबुद्ध्याद्यैकाग्र्यपूर्वकत्वम् । दानस्य च सम्यकत्वं देशकालपात्रानुगुणत्वम् ।