‘इदं विदित्वा’ इत्यत्र इदंशब्दार्थमेव स्फुटयति-
सप्तेति ।
यद्यपि ‘किं तद्ब्रह्म’ (भ. गी. ८-१) इत्यादौ, ‘अधियज्ञः कथं कोऽत्र’ (भ. गी. ८-२) इत्यत्र प्रश्नद्वयंप्रतिभासानुसारेण कश्चित् उक्तम् , तथापि प्रतिवचनालोचनायां द्वित्वप्रतीत्यभावात् प्रकारभेदविवक्षया चशब्दद्वयस्य प्रतिनियतत्वात् न सप्तेति विरुध्यते ।
न च इदं वेदनम् आपातिकं किन्तु अनुष्ठानपर्यन्तम् इत्याह -
सम्यगिति ।
प्रकृतो ध्याननिष्ठः योगी इत्युच्यते । ऐश्वरम् - विष्णोः परमं पदम् , तदेव तिष्ठति अस्मिन् अशेषम् इति स्थानम् । योगानुष्ठानात् अशेषफलातिशायि मोक्षलक्षणं फलं क्रमेण लब्धुं शक्यम् इति भावः । तदनेन सप्तप्रश्नप्रतिवचनेन योगमार्गं दर्शयता ध्येयत्वेन तत्पदार्थो व्याख्यातः
॥ २८ ॥
इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने अष्टमोऽध्यायः ॥ ८ ॥