अतीतेन आगामिनोऽध्यायस्य अगतार्थत्वं वक्तुं वृत्तमनुवदति -
अष्टम इति ।
नाडी - सुषुम्नाख्या । धारणाख्येन अङ्गेन युक्ता योगो धारणायोगः । सगुणः - सर्वद्वारसंयमनादिगुणः, तेन सहित इत्यर्थः ।
तत्फलोक्त्यर्थम् अनन्तराध्यायारम्भम् आशङ्क्य, आह -
तस्य चेति ।
‘अग्निरर्चिः’ इत्यादिना उपलक्षितेन क्रमवता, देवयानेन पथा इति यावत् ।
ज्ञानानन्तरमेव यथोक्तफललाभात् अलम् अनेन मार्गेण, इत्याशङ्क्य, आह -
कालान्तर इति ।
अर्चिरादिमार्गेण ब्रह्मप्राप्तौ मुक्तेः मार्गायत्तत्वात् ‘न तस्य’ इत्यादिश्रुतिविरोधः स्यात् , इत्याशयेन शङ्कते -
तत्रेति ।
वृत्तोऽर्थः सप्तम्यर्थः ।
उक्ताशङ्कानिवृत्त्यर्थम् अनन्तराध्यायम् उत्थापयति -
तदाशङ्केति ।
सम्प्रयुक्तत्वेन अपरोक्षत्वाभावेऽपि पूर्वोत्तरग्रन्थालोचनया बुद्धिसन्निधानात् इदंशब्देन ब्रह्मज्ञानं गृहीतम् ; इत्याह -
तद् - बुद्धाविति ।
प्रकृतात् ध्यानात् ज्ञानस्य वैशिष्ट्यावद्योती तुशब्दः, इत्याह -
तुशब्दइति ।
निपातार्थमेव स्फुटयति -
इदमेवेति ।
तस्मिन्नर्थे संवादकत्वेन श्रृतिस्मृती दर्शयति -
वासुदेव इति ।
अद्वैतज्ञानवत् द्वैतज्ञानमपि केषाञ्चित् मोक्षहेतुः, इत्याशङ्क्य, आह -
नान्यदिति ।
द्वैतज्ञानं मोक्षाय न क्षमम् , इत्यत्र श्रुतिम् उदाहरति -
अथेति ।
अविद्याप्रकरणोपक्रमार्थः अथशब्दः । अतः - अद्वैतात् , अन्यथा - भिन्नत्वेन, इत्यर्थः । विदुः, तत्त्वमिति शेषः । द्वैतस्य दुर्निरूपत्वेन कल्पितत्वात् तज्ज्ञानं रज्जुसर्पादिज्ञानतुल्यत्वात् न क्षेममिति शेषः । द्वैतस्य दुर्निरूपत्वेन कल्पितत्वात् तज्ज्ञानं रज्जुसर्पादिज्ञानतुल्यत्वात् न क्षेमप्राप्तिहेतुः, इति चकारार्थः । असूया - गुणेषु दोषाविष्करणम् , तद्रहिताय, ज्ञानाधिकृताय इत्यर्थः ।
ज्ञानम् - ब्रह्मचैतन्यं, तद्विषयं वा प्रमाणज्ञानम् , तस्य तेनैव विशेषितत्वानुपपत्तिम् आशङ्क्य, व्याकरोति -
अनुभवेति ।
विज्ञानम् - अनुभवः - साक्षात्कारः, तेन सहितम् इत्यर्थः ।
उक्तज्ञानं प्राप्तस्य किं स्यात् ? इत्याशङ्क्य, आह -
यज्ज्ञानमिति
॥ १ ॥