ब्रह्मविद्या विद्यानां राजा श्रेष्ठा इत्यत्र हेतुमाह -
दीप्तीति ।
कुतो ब्रह्मविद्याया विद्यान्तरेभ्यो दीप्त्यतिशयवत्त्वम् ? तदाह -
दीप्यते हीति ।
दृश्यते हि विद्वदन्तरेभ्यो लोके पूजातिरेको ब्रह्मविदाम् , इति भावः ।
उत्कृष्टतमं शुद्धिकारणं ब्रह्मज्ञानम् , इत्येतत् उपपादयति -
अनेकेति ।
तत्र च श्रुतिस्मृती प्रमाणयितव्ये । न शास्त्रेैकगम्यम् इदं ज्ञानम् , किन्तु प्रत्यक्षप्रमेयम् इत्याह -
किञ्चेति ।
प्रत्यक्षम् , अवगमो मानम् अस्मिन् इति तथा, यद्वा अवगम्यत इति अवगमः फलम् , प्रत्यक्षः अवगमः अस्य, इति दृष्टफलकत्वं ज्ञानस्य उच्यते ।
धर्म्यम् इत्येतद् व्याकरोति -
अनपेतमिति ।
धर्मस्येव तस्य क्लेशसाध्यत्वम् आशङ्क्य, आह -
एवमपीति ।
तत्र रत्नविषयं विवेकज्ञानं सम्प्रयोगात् उपदेशापेक्षात् अनायासेन दृष्टम् , तथा इदं ब्रह्मज्ञानम् , इत्याह -
तथेति ।
‘अव्ययम् ‘ इति विशेषणम् आशङ्कापूर्वकं विवृणोति -
तत्रेत्यादिना ।
व्यवहारभूमिः सप्तम्यर्थः ।
ज्ञानस्य अक्षयफलत्वे फलितमाह -
अत इति
॥ २ ॥