श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥
राजविद्या विद्यानां राजा, दीप्त्यतिशयवत्त्वात् ; दीप्यते हि इयम् अतिशयेन ब्रह्मविद्या सर्वविद्यानाम् । तथा राजगुह्यं गुह्यानां राजा । पवित्रं पावनं इदम् उत्तमं सर्वेषां पावनानां शुद्धिकारणं ब्रह्मज्ञानम् उत्कृष्टतमम् । अनेकजन्मसहस्रसञ्चितमपि धर्माधर्मादि समूलं कर्म क्षणमात्रादेव भस्मीकरोति इत्यतः किं तस्य पावनत्वं वक्तव्यम् । किञ्च — प्रत्यक्षावगमं प्रत्यक्षेण सुखादेरिव अवगमो यस्य तत् प्रत्यक्षावगमम् । अनेकगुणवतोऽपि धर्मविरुद्धत्वं दृष्टम् , न तथा आत्मज्ञानं धर्मविरोधि, किन्तु धर्म्यं धर्मादनपेतम् । एवमपि, स्याद्दुःखसम्पाद्यमित्यत आह — सुसुखं कर्तुम् , यथा रत्नविवेकविज्ञानम् । तत्र अल्पायासानामन्येषां कर्मणां सुखसम्पाद्यानाम् अल्पफलत्वं दुष्कराणां च महाफलत्वं दृष्टमिति, इदं तु सुखसम्पाद्यत्वात् फलक्षयात् व्येति इति प्राप्ते, आह — अव्ययम् इति । न अस्य फलतः कर्मवत् व्ययः अस्तीति अव्ययम् । अतः श्रद्धेयम् आत्मज्ञानम् ॥ २ ॥

ब्रह्मविद्या विद्यानां राजा श्रेष्ठा इत्यत्र हेतुमाह -

दीप्तीति ।

कुतो ब्रह्मविद्याया विद्यान्तरेभ्यो दीप्त्यतिशयवत्त्वम् ? तदाह -

दीप्यते हीति ।

दृश्यते हि विद्वदन्तरेभ्यो लोके पूजातिरेको ब्रह्मविदाम् , इति भावः ।

उत्कृष्टतमं शुद्धिकारणं ब्रह्मज्ञानम् , इत्येतत् उपपादयति -

अनेकेति ।

तत्र च श्रुतिस्मृती प्रमाणयितव्ये । न शास्त्रेैकगम्यम् इदं ज्ञानम् , किन्तु प्रत्यक्षप्रमेयम् इत्याह -

किञ्चेति ।

प्रत्यक्षम् , अवगमो मानम् अस्मिन् इति तथा, यद्वा अवगम्यत इति अवगमः फलम् , प्रत्यक्षः अवगमः अस्य, इति दृष्टफलकत्वं ज्ञानस्य उच्यते ।

धर्म्यम् इत्येतद् व्याकरोति -

अनपेतमिति ।

धर्मस्येव तस्य क्लेशसाध्यत्वम् आशङ्क्य, आह -

एवमपीति ।

तत्र रत्नविषयं विवेकज्ञानं सम्प्रयोगात् उपदेशापेक्षात् अनायासेन दृष्टम् , तथा इदं ब्रह्मज्ञानम् , इत्याह -

तथेति ।

‘अव्ययम् ‘ इति विशेषणम् आशङ्कापूर्वकं विवृणोति -

तत्रेत्यादिना ।

व्यवहारभूमिः सप्तम्यर्थः ।

ज्ञानस्य अक्षयफलत्वे फलितमाह -

अत इति

॥ २ ॥