भूतानाम् ईश्वरे नैव स्थितिः, इत्यत्र हेतुमाह -
पश्येति ।
आत्मनोऽसङ्गत्वं स्वरूपम् , इत्यत्र प्रमाणमाह -
तथा चेति ।
असङ्गश्चेत् ईश्वरः, तर्हि कथं ‘मत्स्थानि भूतानि’ (भ. गी. ५-५) इत्युक्तम् , कथञ्च तथोक्त्वा ‘न च भत्स्थानि’ इति तद्विरुद्धमुदीरितम् , इत्याशङ्क्य, आह -
इदञ्चेति ।
तर्हि भूतसम्बन्धः स्यात् , इति नेत्याह -
नचेति ।
यथोक्तेन न्यायेन - असङ्गत्वेन, इति यावत् । असङ्गतया वस्तुतो भूतासम्बन्धेऽपि कल्पनया तदविरोधात् न मिथो विरोधोऽस्ति, इति भावः ।
आत्मनः सकाशात् आत्मनोऽन्यत्वायोगात् कुतः सम्बन्धोक्तिः ? इत्याशङ्क्य, आह -
असाविति ।
(विभज्येति) । यथा लोको वस्तुतत्त्वमजानन् भेदम् आरोप्य ‘ममायम् ‘ इति सम्बन्धमनुभवति, न तथा इह सम्बन्धव्यपदेशः, आत्मनि स्वतो भेदाभावात् । अतो भेदे असत्येव लोके सम्बन्धबुद्धिदर्शनम् अनुसरन् भगवान् आत्मनो देहादिसङ्घातं विभज्य अहङ्कारं तस्मिन् आरोप्य ‘असौ ममात्मा’ इति भेदं व्यपदिशति । तथा च सङ्घातस्य ‘मम’ इति व्यपदेशात् ततो नि(कृ)ष्कृष्टस्य स्वरूपस्य आत्मशब्देन निर्देशात् न भूतस्थोऽसौ, इत्यर्थः ।
पूर्वोक्तासङ्गत्वाङ्गीकारेणैव आत्मा भूतानि भावयति, इत्याह -
तथेति
॥ ५ ॥