श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम्
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ १६ ॥
यदि बहुभिः प्रकारैः उपासते, कथं त्वामेव उपासते इति, अत आह —

भगवदेकविषयम् उपासनं तर्हि न सिद्ध्यति, इति शङ्कते -

यदि इति ।

प्रकारभेदमादाय ध्यायन्तोऽपि भगवन्तमेव ध्यायन्ति, तस्य सर्वात्मकत्वात् , इत्याह -

अत आहेति ।