श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥ १८ ॥
गतिः कर्मफलम् , भर्ता पोष्टा, प्रभुः स्वामी, साक्षी प्राणिनां कृताकृतस्य, निवासः यस्मिन् प्राणिनो निवसन्ति, शरणम् आर्तानाम् , प्रपन्नानामार्तिहरःसुहृत् प्रत्युपकारानपेक्षः सन् उपकारी, प्रभवः उत्पत्तिः जगतः, प्रलयः प्रलीयते अस्मिन् इति, तथा स्थानं तिष्ठति अस्मिन् इति, निधानं निक्षेपः कालान्तरोपभोग्यं प्राणिनाम् , बीजं प्ररोहकारणं प्ररोहधर्मिणाम् , अव्ययं यावत्संसारभावित्वात् अव्ययम् , हि अबीजं किञ्चित् प्ररोहति ; नित्यं प्ररोहदर्शनात् बीजसन्ततिः व्येति इति गम्यते ॥ १८ ॥

गम्यत इति प्रकृतिविलयान्तं कर्मफलं गतिः इत्याह -

कर्मेति ।

पोष्टा - कर्मफलस्य प्रदाता ।

कार्यकारणप्रपञ्चस्य अधिष्ठानम् इत्याह -

निवास इति ।

शीर्यते दुःखम् अस्मिन् इति व्युत्पत्तिम् आश्रित्य आह -

शरणमिति ।

प्रभवति अस्मात् जगत् इति व्युत्पत्तिम् आदाय उक्तम् -

उत्पत्तिरिति ।

कारणस्य कथम् अव्ययत्वम् ? इत्याशङ्क्य आह -

यावदिति ।

कारणम् अन्तरेणापि कार्यं कदाचित् उदेष्यति, किं कारणेन ? इत्याशङ्क्य आह -

न हीति ।

माभूत् तर्हि संसारदशायामेव कदाचित् कार्योत्पत्तिः इत्याशङ्क्य आह -

नित्यं चेति ।

कारणव्यक्तेः नाशम् अङ्गीकृत्य तदन्यतमव्यक्तिशून्यत्वं पूर्वकालस्य नास्तीति सिद्धवत्कृत्य विशिनष्टि -

बीजेति

॥ १८ ॥