श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अनन्याश्चिन्तयन्तो मां
ये जनाः पर्युपासते
तेषां नित्याभियुक्तानां
योगक्षेमं वहाम्यहम् ॥ २२ ॥
अनन्याः अपृथग्भूताः परं देवं नारायणम् आत्मत्वेन गताः सन्तः चिन्तयन्तः मां ये जनाः संन्यासिनः पर्युपासते, तेषां परमार्थदर्शिनां नित्याभियुक्तानां सतताभियोगिनां योगक्षेमं योगः अप्राप्तस्य प्रापणं क्षेमः तद्रक्षणं तदुभयं वहामि प्रापयामि अहम् ; ज्ञानी त्वात्मैव मे मतम्’ (भ. गी. ७ । १८) मम प्रियः’ (भ. गी. ७ । १७) यस्मात् , तस्मात् ते मम आत्मभूताः प्रियाश्च इति

येभ्यः अन्यो न विद्यते इति व्युत्पत्तिम् आश्रित्य आह -

अपृथगिति ।

कार्यस्य इव कारणे तादात्म्यं व्यावर्तयति -

परमिति ।

अहमेव वासुदेवः सर्वात्मा, न मत्तः अन्यत्किञ्चित् अस्ति इति ज्ञात्वा, तमेव प्रत्यञ्चं सदा ध्यायन्ते इत्याह -

चिन्तयन्त इति ।

प्राकृतान् व्यावर्त्य  मुख्यान् अधिकारिणः निर्दिशति -

संन्यासिन इति ।

पर्युपासते - परितः - सर्वतः अनवच्छिन्नतया पश्यन्ति, इत्यर्थः ।

नित्याभियुक्तानाम् - नित्यम् - अनवरतम् आदरेण ध्याने व्यापृतानाम् इत्याह -

सततेति ।

योगश्च क्षेमश्च योगक्षेमम् । तत्र अपुनरुक्तम् अर्थम् आह -

योग इति ।

किमर्थं परमार्थदर्शिनां योगक्षेमं वहसि ? इत्याशङ्क्य, आह -

ज्ञानी त्विति ।

अतः तेषां योगक्षेमं वहामि, इति सम्बन्धः ।