सम्यग्दर्शननिष्ठानामेव योगक्षेमं वहति भगवान् इति विशेषणम् अमृष्यमाणः शङ्कते -
नन्विति ।
अन्येषामपि भक्तानां भगवान् योगक्षेमं वहति इत्येतद् अङ्गीकरोति -
सत्यमिति ।
तर्हि भक्तेषु ज्ञानिषु च विशेषो नास्ति इति पृच्छाति -
किन्त्विति ।
तत्र विशेषं प्रतिज्ञाय विवृणोति -
अयमित्यादिना ।
योगक्षेमम् उद्दिश्य स्वयम् ईहन्ते - चेष्टां कुर्वन्ति, इति यावत् ।
आत्मविदां स्वार्थं योगक्षेमम् उद्दिश्य चेष्टाभावं स्पष्टयति -
न हीति ।
गुद्धिः - अपेक्षा, कामना । ताम् इत्येतत् । ज्ञानिनां तर्हि सर्वत्र अनास्था इत्याशङ्क्य, आह -
केवलमिति ।
तेषां तदेकशरणत्वे फलितम् आह -
अत इति ।
इतिशब्दो विशेषशब्देन सम्बध्यते
॥ २२ ॥