इन्द्रादयः भृग्वादयश्च भगवत्प्रभावं न विन्दन्ति इत्यत्र प्रश्नपूर्वकं हेतुम् आह -
कस्मादिति ।
निमित्तत्वेन उपादानत्वेन च यतः देवानां भगवानेव हेतुः, ततः तद्विकाराः ते न तस्य प्रभावं विदुः इत्यर्थः
॥ २ ॥